It is a complete package. It gives whatever is needed in life and after life, and removes all the troubles and fears.
Benefits start after completion of 11k (11,000) Path (chanting), एकादशसहस्रं (11,000) तु पुरश्चरणमुच्यते -- after 11k Path it gets awaken (जाग्रत हो जाता है). This Shatnam of Shri Batuk Bhairav in Srishti Kram (normal Kram) has immense benefits. It gives everything what is needed in life: 1) it gives fearlessness, 2) helps in earning money, removes disease, 3) it helps in getting justice in life, 4) it clears the way of getting wife / husband and children, and so forth. There are lots of benefits but it can only be availed if after finishing 11K Path, chanting goes on on day to day basis.
Please note that you can't ask for undue favours, Devta only supposed to help when we are on the right track with right character -- 'coz they work for establishing justice in this world / universe.
Little bit of meaning I tried to write on the right side.
Benefits / फलश्रुति Of Shri Batuk Bhairav Shatnam
मया ते कथितं देवि रहस्यं सर्वकामदम् ।
य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।।
न तस्य दुरितं किंचिन्न च भूतभयं तथा।
नच मारीभयं तस्य ग्रहराजभयं तथा ।।
न शत्रुभ्यो भयं क्वापि प्राप्नुयान्मानवः क्वचित्।
पातकानां भयं नैव पठेत्स्तोत्रमनुत्तमम् ।।
मारीभये राजभये तथा चौराग्निजे भये।
औत्पत्तिके महाघोरे तथा दुःस्वप्नदर्शने ।।
बन्धने सर्वं प्रशमनं याति भयं भैरवकीर्तनात् ।।
च तथा घोरे पठेत्स्तोत्रमनन्यधीः ।
एकादशसहस्रं (11,000) तु पुरश्चरणमुच्यते । (Jagrat karna / To awaken.)
यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतंद्रितः ।। (To be chanted three times a day.)
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ।
षण्मासं भूमिकामस्तु जपित्वा प्राप्नुयान्महीम् ।।
राजशत्रु विनाशाय जपेन्मासाष्टकं पुनः । (Removes enemy trouble)
रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ।।
जपेन्मासत्रयं मत्यों राजानं वशमानयेत् ।
धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ।।
जपेन्मासत्रयं देवि वारमेकं तथा निशि ।
धनं पुत्रं तथा दारान्प्राप्नुयात्रात्र संशयः ।। (It gives prosperity, son / daughter and wife.)
रोगी रोगात् प्रमुच्येत वद्धो मुच्येत बन्धनात् । (It removes disease from life.)
भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः ।।
निगडैश्चापि वृद्धो यः कारागारे निपातितः । (It helps in getting justice.)
श्रृंखला बंधनं प्राप्तं पठच्चैव दिवानिशम् ।।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । (If you chant it, it will give result.)
अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ।।
सुकुलीनाय शान्ताय ऋजवे दंभवर्जिते ।
दद्यात्स्तोत्रमिदं पुण्यं सर्व काम फलप्रदम् ।।
इति श्रुत्वा ततो देवि नामाष्टशतमुत्तमम् ।
जजाप परया भक्त्या सदा सर्वे सुरेश्वरी ।।
भैरवस्य प्रहृष्टोऽभूत् सर्वलोक महेश्वरः ।
वरं ददाति भक्तेभ्यो पठेत्स्तोत्रमनन्यधीः । (Shri Batuk Bhairav gives boon to His devotees.)
सन्तोषं परमं प्राप्य भैरवस्य महात्मनः ।।
वारं वारं भुवनजननी प्रोच्यते साधुवादः,
सत्यं सत्यं जगति सकले भैरवो देव एकः।
यां यां सिद्धिं भुवनजठरे कामयेन्मानवो यः,
तां तां सिद्धिं वितरति सदा भैरवः सुप्रसन्नः ।।
पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च,
ब्रह्माण्डम् सकलं प्रचालितरसालोच्यैः फलाभं मुहुः।
पायंपायमपाययस्त्रिजगति उन्मत्तवत्तै
रसेनृत्यंस्ताण्डवमंबरेण शिरसा पायान्महा भैरवः ।।
विभ्राणः शुभ्रवर्णं द्विगुणनवभुजं पंचवक्त्रं त्रिनेत्रं,
ज्ञानं मुद्रेन्द्रशस्त्रं सविषममुतकं शंख भैषज्य चापम्।
शूलं खट्वांगबाणान्डमरुमसिगदा वह्निमारोग्य माला-
मिष्टाभीतिं च दोर्भिर्जयति खलु महाभैरवः सर्वसिद्ध्यै ।।
क्वाकाशः क्वसमीरणः क्वदहन क्वापश्च विश्वंभरः-,
क्वब्रह्मा क्वजनार्दनः क्वतरणिः क्वेन्दुश्च देवासुराः ।
कल्पान्तेभदिशाटन प्रमुदितः श्री सिद्ध योगीश्वरो, ।
क्रीडानाटकनायको विजयते देवो महा भैरवः ।।
लिखित्वा परया भक्त्या भैरवस्तोत्रमुत्तमम् ।
अष्टानां ब्राह्मणानां च देयं पुस्तकमादरात्॥
यां यां समीहते कामांस्तांस्तां प्राप्नोत्यसंशयम् ।
इहलोके सुखं प्राप्य पुस्तकस्य शिवलोकमनुप्राप्य शिवेन सह ।। (One who regularly chants, gets pleasure of this world and after that gets Lord Shiv in His Shivlok.)
Comments
Post a Comment