There are many Kavach Stotras of Shri Batuk Bhairav, but below is called Kavach Raj -- King in all other Kavachas. You may consider this if you are looking for a Shri Batuk Bhairav Kavach.
।। विनियोग ।।
ॐ अस्य श्रीबटुक-भैरव-कवच-राजस्य भैरवो ऋषिः, अनुष्टुप् छन्दः, श्रीबटुक-भैरवो देवता, मम सर्वार्थ साधने विनियोगः ।
।। ऋष्यादि-न्यास ।।
ॐ भैरव-ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीबटुक-भैरव-देवतायै नमः हृदये । मम सर्वार्थ साधने विनियोगाय नमः सर्वाङ्गे ।
।। श्रीबटुक-भैरव कवच-राज-स्तोत्रम् ।।
ॐ पातु शिरसि नित्यं, पातु ह्रीं कण्ठ-देशके । बटुकं पातु हृदये, आपदुद्धारणाय च ॥1
कुरु-द्वयं मे लिङ्गस्य, आधारे बटुकाय च। सर्वदा पातु ह्रीं बीजं, बाह्वोर्युगलमेव च ॥2
षडङ्ग - सहितो देवो, नित्यं रक्षतु भैरवः । ह्रीं बटुकाय सततं, सर्वाङ्गे मम सर्वदा ।।3
ह्रों काल पादयोः पातु, पातु वीरासनं हृदि । महा-कालः शिरं पातु, कण्ठ-देशे तु भैरवः ॥4
विश्व-नाथः सदा पातु, सर्वाङ्गे मम सर्वदा । अन्न-पूर्णा सदा पातु, अंसं रक्षतु चण्डिका ।।6
असिताङ्गः शिरः पातु, ललाटं पातु भैरवः । चण्ड - भैरवः तु वक्ते, कण्ठे श्रीक्रोध-भैरवः ।।7
मूलाधारं भीषणश्च, बाहु - युग्मं च भैरवः । हंस - बीजं पातु हृदि, सोऽहं रक्षतु प्राणयोः ।।8
प्राणापान - समानं च, उदानं व्यानमेव च । रक्षन्तु द्वार - मूले तु, दश दिक्षु समन्ततः ।। 9
प्रणवः पातु सर्वाङ्ग, लज्जा बीजं महा भये । श्रीब्रह्म - कवचं शुभंः, भैरवस्य प्रकीर्तितम् ।।10
।। श्रीबटुक-भैरवस्य कवच-राज-स्तोत्रं सम्पूर्णम् ।।
Comments
Post a Comment