It looks like a Kavach Path, it connects us to the heart centre of Shri Batuk Bhairav -- that's why it is a Hriday Stotra. Hriday Stotra of any Devta is a powerful way to get their Kripa (grace) fast. Chanting of below Hriday Stotra gives these three main benefits: 1) सर्व - पाप - प्रणाशनम्, 2) सर्व-सम्पत्-प्रदं, and 3) सर्व-सिद्धि-फल-प्रदम् -- as it is written in its Phalashruti.
॥ पूर्व-पीठिका ॥
कैलाश-शिखरासीनं, देव - देवं जगद् - गुरुम् ।
देवी पप्रच्छ सर्वज्ञं, शङ्करं वरदं शिवम् ।।1
॥ श्रीदेव्युवाच ।।
देव - देव ! परेशान ! भक्ताभीष्ट - प्रदायक !
प्रब्रूहि मे महा-भाग ! गोप्यं यद्यपि न प्रभो ! ॥2
बटुकस्यैव हृदयं, साधकानां हिताय च ।
।। श्रीशिव उवाच ।।
शृणु देवि ! प्रवक्ष्यामि, हृदयं बटुकस्य च ॥3
गुह्याद्-गुह्य-तरं गुह्य, तच्छृणुष्व तु मध्यमे !
हृदयास्यास्य देवेशि ! वृहदारण्यको ऋषिः ॥4
छन्दोऽनुष्टुप् समाख्यातो, देवता बटुकः स्मृतः ।
प्रयोगाभीष्ट-सिद्धयर्थं, विनियोगः प्रकीर्तितः ॥5
।। श्रीबटुक-भैरव हृदय-स्तोत्रम् ।।
विनियोग:
ॐ अस्य श्रीबटुक-भैरव-स्तोत्रस्य श्री वृहदारण्यक ऋषिः, अनुष्टुप् छन्दः, श्रीबटुक-भैरवः देवता, अभीष्ट-सिद्धयर्थं पाठे विनियोगः ।
ऋष्यादि-न्यास:
श्री वृहदारण्यक ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीबटुक-भैरव- देवतायै नमः हृदये । अभीष्ट-सिद्धयर्थं पाठे विनि- योगाय नमः सर्वांगे ।
स्तोत्रम्:
ॐ प्रणवेशः शिरः पातु, ललाटे प्रमथाधिपः । कपोलौ काम - वपुषो, भ्रू-भागे भैरबेश्वरः ।।1
नेत्रयोर्वह्नि - नयनो, नासिकायामघा - पहः । ऊर्बोष्ठे दीर्घ - नयनो, ह्यधरोष्ठे भयाशनः ।।2
चिबुके भाल - नयनो, गण्डयोश्चन्द्र - शेखरः । मुखान्तरे महा-कालो, भीमाक्षो मुख - मण्डले ।।3
ग्रीवायां वोर-भद्रोऽव्याद्, घण्टिकायां महोदरः । नील-कण्ठो गण्ड-देशे, जिह्वायां फणि-भूषणः ।।4
दशने वज्र - दशनो, तालुके ह्यमृतेश्वरः । दोर्दण्डे वज्र-दण्डो मे, स्कन्धयोः स्कन्द-वल्लभः ।।5
कूर्परे कञ्ज - नयनो, फणौ फेत्कारिणी-पतिः । अङ्गुलीषु महा - भीमो, नखेषु अघहाऽवतु ।।6
कक्षे व्याघ्रासनो पातु, कटयां मातङ्ग-चर्मणी । कुक्षौ कामेश्वरः पातु, वस्ति-देशे स्मरान्तकः ।।7
शूल - पार्णािलङ्ग-देशे, गुह्ये गुह्येश्वरोऽवतु ।जङ्घायां वज्ज्र - दमनो, जघने जृम्भकेश्वरः ।।8
पादौ ज्ञान - प्रदः पातु, धनदश्चाङ्गुलीषु च । दिग्-वासो रोम-कूपेषु, सन्धि-देशे सदा-शिवः ।। 9
पूर्वाशां काम-पीठस्थः, उड्डीशस्थोऽग्नि-कोणके । याम्यां जालन्धरस्थो मे, नैऋत्यां कोटि-पीठगः ।।10
वारुण्यां वज्र-पीठस्थो, वायव्यां कुल - पीठगः । उदीच्यां वाण-पीठस्थः, ऐशान्यामिन्दु-पीठगः ।।11
ऊर्ध्वं बीजेन्द्र-पीठस्थः, खेटस्थो भूतलोऽवतु । रुरुः शयानेऽवतु मां, चण्डो वादे सदाऽवतु ।।12
गमने तीव्र - नयनः, आसीने भूत - वल्लभः । युद्ध - काले भहा-भीमो, भय-काले भवान्तकः ॥13
रक्ष रक्ष परेशान ! भीम - दंष्ट्र ! भयापह ! महा-काल ! महा-काल ! रक्ष मां काल-सङ्कटात् ।।14
।। फल-श्रुतिः ।।
इतीदं हृदयं दिव्यं, सर्व - पाप - प्रणाशनम् ।
सर्व-सम्पत्-प्रदं भद्रे ! सर्व-सिद्धि-फल-प्रदम् ।।
।। श्रीबटुक-भैरव-हृदय-स्तोत्रं सम्पूर्णम् ॥
Comments
Post a Comment