Rudra Abhishek is mostly done with Rudrastadhyayi, which includes Namkam and Chamkam. But in Mahabharata, they were also used to do Rudra Abhishek with below stotra.
॥अथ रुद्राभिषेकस्तोत्रम् (महाभारतान्तर्गतम् ) ॥
॥कृष्णार्जुनावूचतुः ॥
नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ 01॥
महादेवाय भीमाय त्र्यम्बकाय च शान्तये । ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥ 02 ॥
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे । पिनाकिने हविष्याय सत्याय विभवे सदा ॥ ५७॥
विलोहिताय ध्रूम्राय व्याधायानपराजिते । नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥ 03 ॥
होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे । अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ 04 ॥
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे । तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ 05 ॥
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते । नमोनमस्ते सेव्याय भूतानां प्रभवे सदा ॥ 06 ॥
ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च । नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥ 07 ॥
अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा । नमोऽस्तु देवदेवाय महाभूतधराय च । नमो विश्वस्य पतये पत्तीनां पतये नमः ॥ 08 ॥
नमो विश्वस्य पतये महतां पतये नमः । नमः सहस्रशिरसे सहस्र भुजमृत्यवे॥ सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ॥ 09 ॥
॥ सञ्जय उवाच ॥
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः । प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥
॥ इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनस्वप्ने अशीतितमोऽध्यायः ॥
Comments
Post a Comment