It is the stotra of five faced Pashupati Shiv. The names of His five faces are as, Sadyojata, Vamadeva, Aghora, Tatpurusha and Ishana.
॥ श्रीपशुपति पञ्चास्य स्तवः॥
सदा सद्योजातस्मितमधुरसास्वादपरया
भवान्या दृक्पातभ्रमरततिभिश्चुम्बितपुटम्।
अपां पत्युः काष्ठां श्रितमधिकशीतं पशुपते-
र्मुखं सद्योजातं मम दुरितजातं व्यपनयेत्॥१॥
जटान्तःस्वर्धुन्याश्शिशिरमुखवातैरवमतिं
गतं वामां रुष्टामनुनयसहस्रैः प्रशमितुम्।
किरत्ज्योत्स्नं वामं नयनमगजानेत्रघटितं
दधद्वामं वक्त्रं हरतु मम कामं, पशुपतेः॥२॥
गले घोरज्वालं गरलमपि गण्डूषसदृशं
निदाघान्ते, गर्जद्घनवदतिनीलं वहति यत्।
निरस्तुं विश्वाघप्रचयमधितिष्ठद्यमदिशं
पुमर्थानं पूर्तिं प्रणतशिरसां दातुमनिशं
जलाभावो माभूदिति शिरसि गङ्गां वहति यत्।
सुरेशासास्फूर्तिं मुकुटशशिभासा किरति तत्
मुखं तत् पुंरूपं हरतु मम मोहं, पशुपतेः॥४॥
रमेशो वागीशो दिवसरजनीशौ परशुदृक्
सुरेशो दैत्येशो निशिचरकुलेशोऽथ धनदः।
यदूर्ध्वांशुव्रातैश्शिवचरितवन्तः परिणताः
तदैशानं वक्त्रं हरतु भवपाशं, पशुपतेः॥५॥
॥ इति श्रीपशुपति पञ्चास्य स्तवः॥
Comments
Post a Comment