Below is powerful Saraswati Stotra, chanting this may gives numerous benefits: 1) intellect, fame and art of poetry (बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे ), 2) protection (त्राहि मां शरणागतम्), 3) Moksha, money, education etc., (मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् । । विद्यार्थी लभते विद्यां), 4) also it is supposed to remove enemies from life (तस्य शत्रुः क्षयं). One should show Yoni Mudra to Devi while chanting or listening to this stotra.
॥ नीलसरस्वतीस्तोत्रम् ॥
घोररूपे महारावे सर्वशत्रुभयङ्करि । भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १ ॥
ॐ सुराऽसुरार्चिते चिते देवि सिद्धगन्धर्वसेविते । जाड्य - पापहरे देवि त्राहि मां शरणागतम् ॥ २ ॥
जटाजूटसमायुक्ते . लोलजिह्वान्तकारिणि । द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३ ||
सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते । सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४ ॥
जडानां जडतां हन्ति भक्तानां भक्तवत्सला । मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ ५ ॥
वं ह्र हू कामये देवि बलिहोमप्रिये नमः । उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥ ६ ॥
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे । मूढत्वं च हरेद् देवि त्राहि मां शरणागतम् ॥ ७ ॥
इन्द्रादि - विलसद् - द्वन्द्ववन्दिते करुणामयि । तारे ताराधिनाथास्ये त्राहि मां शरणागतम् ॥ ८ ॥
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः । षण्मासैः सिद्धिमाप्नोति नाsत्र कार्या विचारणा ॥ ९ ॥
॥ फलश्रुति / Benefits ॥
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाऽन्वितः । तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ॥ ११ ॥
पीडायां वाऽपि संग्रामे जाड्ये दाने तथा भये । य इदं पठति स्तोत्रं शुभं तस्य न संशयः । इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥ १२ ॥
॥ इति नीलसरस्वतीस्तोत्रं समाप्तम् ॥
Comments
Post a Comment