In this Sthiti Kram Path of Shri Batuk Bhairav, the sequence of Shlokas are changed -- compare it with the normal (Srishti) Kram Path.
ॐ ह्रीं धनदोऽधन-हारी च, धन-वान् प्रतिभाग-वान्। नाग-हारो नाग-केशो, व्योम-केशः कपाल-भृत् ।।१
कालः कपाल-माली च, कमनीयः कला-निधिः। त्रि-लोचनः ज्वलन्नेत्रस्त्रि-शिखी चत्रि-लोक-भृत् ।।२
त्रिवृत्त-तनयो डिम्भः, शान्तः शान्त-जन-प्रियः। बटुको बटु - वेषश्च, खट्वाङ्ग - वर-धारकः ।।३
भूताध्यक्षः पशु - पतिभिक्षुकः परिचारकः । धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डु - लोचनः ।।४
प्रशान्तः शान्तिदः शुद्धः, शङ्कर - प्रिय - बान्धवः। अष्ट - मूर्तिर्निधीशश्च, ज्ञान - चक्षुस्तपो - मयः ।।५
अष्टाधारः षडाधारः, सर्प - युक्तः शिखी सखः। भूधरो भूधराधीशो, भूपतिर्भू धरात्मजः ।।६
भैरवो भूत - नाथश्च, भूतात्मा भूत - भावनः । क्षेत्रज्ञः क्षेत्र - पालश्च, क्षेत्रदः क्षत्रियो विराट्।।०७
श्मशान-वासी मांसाशी, खर्पराशी स्मरान्त-कृत्। रक्तपः पानपः सिद्धः, सिद्धिदः सिद्धि-सेवितः ।।०८
कङ्कालः काल-शमनः, कला-काष्ठा-तनुः कविः । त्रि - नेत्रो बहु-नेत्रश्च, तथा पिङ्गल-लोचनः ।।०९
शूल-पाणिः खङ्ग-पाणिः, कङ्काली धूम्र-लोचनः। अभीरुभैरवी - नाथो, भूतपो योगिनी पतिः ।।१०
कपाल-धारी मुण्डी च, नाग-यज्ञोपवीत-वान्। जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा ।।११
शुद्ध - नीलाञ्जन - प्रख्य - देहः मुण्ड - विभूषणः। बलि-भुग् बलि-भुङ्-नाथो, बालो बाल-पराक्रमः ।।१२
सर्वापत् - तारणो दुर्गो, दुष्ट - भूत - निषेवितः । कामी कला-निधिः कान्तः, कामिनी-वश-कृद्-वशी ।।१३
जगद्-रक्षा-करोऽनन्तो, माया-मन्त्रौषधी-मयः । सर्व-सिद्धि-प्रदो वैद्यः, प्रभ-विष्णुरितीव हि ह्रीं ॐ ।।१४
Comments
Post a Comment