Rahasya Stotra contains secrets of the Devta. As the Rahasya means "secrets," if you know the secrets of your Devta then it draws Him closer to you. Along with this Stotra there are very powerful Asht Bhairav Raksha mantra.
।। श्रीदेव्युवाच ॥
भगवन् देव - देवेश ! रहस्यं बटुकाय मे । ब्रूहि येन वशी-कुर्यात्, साधको भैरवं शिवम् ।।१
।। श्रीबटुक उवाच ।।
शृणु देवि ! परं गोप्यं, कथयामि सु-शोभने ! रहस्यं सिद्धिदं साक्षाद्, बटुकस्य महात्मनः ॥२
निरूपिताः । सर्वे बटुक-देवस्य, साधने ये उपाया निष्फला एव, विधानं वीर-साधनम् ।। ३
यो वीर-साधनं हित्वा, उपायं चान्यमाश्रयेत् । न स सिद्धिमवाप्नोति, नरो वर्ष-शतैरपि ।।४
दक्षिणे भूचरः पातु, वामे पातु सदा-शिवः । केशान् पातु विशालाक्षो, मूर्धानं मे मरुत्-प्रियः ।।५
मस्तकं पातु भृग्वीशो, नेत्रं पातु महा-मनाः । कपोलौ पातु वीरेशो, गण्डौ गण्डारि-मर्दनः ।।६
उत्तरौष्ठं विरूपाक्षो, हघधरे योगिनी-प्रियः । दन्ते रक्षसि विध्वंसी, चिबुके पातु काल-धृक् ।।७
कण्ठे रक्षतु मे देवो, नील-कण्ठो जगद् गुरुः । दक्ष-स्कन्धे गिरीन्द्रेशो, वाम-स्कन्धे च सुन्दरः ।।८
भुजे च दक्षिणे सर्व - मन्त्र - नाथः सदाऽवतु । वामे भुजे सर्व - भीमो, हृदयं पातु पाण्डुरः ॥६
दक्ष - स्तने पशु - पतिर्वामे पातु महेश्वरः । उदरे सर्व - कल्याण - कारकोऽवतु मां सदा ॥१०
नाभौ काम- प्रविध्वंसी, जङ्घ पातु महा-मनाः । जानुनी पातु यामित्रो, गुल्फौ गौरी-पतिः सदा ।।११
पाद - पृष्ठौ ज्ञान - निधिस्तथा पादांगुलीर्हरः । पादाधः पातु सततं, व्योमकेशो जगत् - प्रियः ।।१२
ॐ ह्रां ह्रीं ह्र. ह्रः पूर्वे भैरवाय नमः ।
ॐ हि ह हों आग्नेये रुरु-भैरवाय नमः ।
ॐ ह्रीं श्रीं दक्षिणे चण्ड-भैरवाय नमः ।
ॐ ल्हीं ग्ल्हू नग नग नैऋत्ये क्रोध-भैरवाय नमः ।
ॐ जूं मूं जूं सः सः पश्चिमे उन्मत्त-भैरवाय नमः ।
ॐ ब्राँ ब्राँ ब्राँ वायव्ये कपाल-भैरवाय नमः ।
ॐ भ्रां भ्रां भ्रां उत्तरे भीषण-भैरवाय नमः ।
ॐ जूं जूं स्त्र फट् ईशाने संहार-भैरवाय नमः ।
Note: Some Beej mantras in above Raksha Mantras aren't appear to be correct. If you have correct Beej mantras of above Raksha mantra then pls post them in comment.
।। रुद्रयामले तन्त्रे बटुक-भैरव-रहस्यं सम्पूर्णम् ।।
Comments
Post a Comment