If you want to do sadhana of Shri Mahakal, first you need to make use of His Kavach -- without proper Kavach protection, going into sadhana isn't advised. A Kavach protects a sadhak from negative energies, and also where you sit for sadhana you don't know energy of that place whether it will help you or harm you, or will mislead you to something else.
Normally Kavach Anusthan of 11,000 paths is done in the beginning, after that you need to chant it three, five, seven, or eleven times before starting your sadhana. Kavach also protects from accidents, thefts, violent animals -- it is written in Kavach Phalashruti what it can do. Normally a jagrat Kavach is chanted three times, three-times-a-day (see, line 3 of phalashruti).
Shri Mahakal Bhairav Kavach
।। श्रीदेव्युवाच ॥
देव-देव, महा-बाहो ! भक्तानां सुख-वर्धन ! केन सिद्धि ददात्याशु, काली त्रैलोक्य-मोहन ! ।।१
तन्मे वद दयाऽऽधार ! साधकाभीष्ट - सिद्धये । कृपां कुरु जगन्नाथ ! वद वेद - विदां वर ! ॥२
॥ श्रीभैरव उवाच ।।
- गोपनीयं प्रयत्नेन, तत्त्वात् तत्त्वं परात्परम् । एष सिद्धि-करः सम्यक्, किमथो कथयाम्यहम् ।।३
कवचं तत्त्व - देवस्य, पठनाद् घोर - दर्शने । सत्यं भवति सान्निध्यं, कवच - स्तवनान्तरात् ।।५
सिद्धि ददाति सा तुष्टा, कृत्वा कवचमुत्तमम् । साम्राज्यत्वं प्रियं दत्वा, पुत्र-वत् परि-पालयेत् ।।६
कवचस्य ऋषिर्देवी, कालिका दक्षिणा तथा, विराट् छन्दः सु-विज्ञेयं, महा-कालस्तु देवता ।
कालिका साधने चैव, विनियोगः प्रकीत्तितः ॥७
ॐ श्मशानस्थो महा-रुद्रो, महा-कालो दिगम्बरः । कपाल - कर्तृका वामे, शूलं खट्वाङ्ग दक्षिणे ।।८
भुजङ्ग-भूषिते देवि ! भस्मास्थि-मणि-मण्डितः । ज्वलत्-पावक-मध्यस्थो, भस्म-शय्या-व्यवस्थितः ॥६
विपरीत - रतां तत्र, कालिकां हृदयोपरि। पेयं खाद्यं च चोष्यं च, तौ कृत्वा तु परस्परम् ।
एवं भक्त्या यजेद् देवं, सर्व-सिद्धिः प्रजायते ॥१०
प्रणवं पूर्वमुच्चार्य, महा - कालाय तत्पदम् । नमः पातु महा - मन्त्रः, सर्व-शास्त्रार्थ - पारगः ।।११
अष्टाक्षरो महा - मन्त्रः, सर्वाशा - परिपूरकः । सर्व - पाप - क्षयं याति, ग्रहणे भक्त - वत्सले ॥१२
कूर्च - द्वन्द्वं महा - काल ! प्रसीदेति पद - द्वयम् । लज्जा-युग्मं वह्नि-जाया, स तु राजेश्वरो महान् ।।१३
मन्त्र-ग्रहण - मात्रेण, भवेत् सत्यं महा- कत्रिः । गद्य-पद्य - मयी वाणी, तस्य नाम तु देवेशि ! गङ्गा - निर्झरिता तथा ।।१४
देवा गायन्ति भावुकाः । शक्ति - बीज-द्वयं दत्वा, कूर्च स्यात् तदनन्तरम् ।।१५
महा-काल-पदं दत्वा, माया - बोज - युगं तथा । कूर्चमेकं समुद्धृत्य, महा - मन्त्रो दशाक्षरः ।।१६
राज - स्थाने दुर्गमे च, पातु मां सर्वतो मुदा । वेदादि - बीजमादाय, भग - मान् तदनन्तरम् ।।१७
महा-कालाय सम्प्रोच्य, कूर्च दत्वा च ठ-द्वयम् । ह्रींकार - पूर्वमुद्धृत्य, वेदादिस्तदनन्तरम् ।।१८
महा - कालस्यान्त-भागे, स्वाहान्त-मनुमुत्तमम् । धनं पुत्त्रं सदा पातु, बन्धु - दारा - निकेतनम् ।।१६
पिङ्गलाक्षो मञ्जु - युद्धे, युद्धे नित्यं जय-प्रदः । सम्भाव्यः सर्व-दुष्टघ्नः, पातु स्व-स्थान-वल्लभः ॥२०
इति ते कथितं तुभ्यं, देवानामपि दुर्लभम् । अनेन पठनाद् देवि ! विघ्न - नाशो यथा भवेत् ।।२१
सम्पूजकः शुचि-स्नातः, भक्ति - युक्तः समाहितः । सर्व-व्याधि - विनिर्मुक्तः, वैरि - मध्ये विशेषतः ॥२२
महा-भीमः सदा पातु, सर्व - स्थान - वल्लभम् । काली-पार्श्व-स्थितो देवः, सर्वदा पातु मे मुखे ।।२३
Benefits / फल-श्रुति
पठनात् कालिका - देवी, पठेत् कवचमुत्तमम् । शृणुयाद् वा प्रयत्नेन, सदाऽऽनन्द-मयो भवेत् ।।१
श्रद्धयाऽश्रद्धया वापि, पठनात् कवचस्य यत् । सर्व - सिद्धिमवाप्नोति, यद् - यन्मनसि वर्तते ॥२
बिल्व - मूले पठेद् यस्तु, पठनाद् कवचस्य यत् । त्रि-सन्ध्यं पठनाद् देवि ! भवेन्नित्यं महा-कविः ॥३
कुमारों पूजयित्वा तु, यः पठेद् भाव - तत्परः । न किञ्चिद् दुर्लभं तस्य, दिवि वा भुवि मोदते ।।४
दुभिक्षे राज - पीड़ायां, ग्रामे वा वैरि - मध्यके । यत्र यत्र भयं प्राप्तः, सर्वत्र प्रपठेन्नरः ।।५
तत्र तत्त्राभयं तस्य, भवत्येव न संशयः । वाम-पावें समानीय, शोभितां वर - कामिनीम् ।।६
श्रद्धयाऽश्रद्धया वापि, पठनात् कवचस्य तु । प्रयत्नतः पठेद् यस्तु, तस्य सिद्धिः करे स्थिता ।।७
इदं कवचमज्ञात्वा, कालं यो भजते नरः, नैव सिद्धिर्भवेत् तस्य, विघ्नस्तस्य पदे पदे ।
आदौ वर्म पठित्वा तु, तस्य सिद्धिर्भविष्यति ।।८
।। रुद्र-यामले महा-तन्त्रे महा-काल-भैरव-कवचं सम्पूर्णम् ।।
Christopher J. Fynn, CC BY-SA 4.0, via Wikimedia Commons |
Comments
Post a Comment